पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे चित्तेन लंबोदर तां गृहाण ह्यज्ञानध्वांताघहरां निजानाम् ॥ ६९ ॥ वेदेषु वैघ्नेश्वरकैः सुमंत्रैः सुमंत्रितं पुष्पदलं प्र भूतम् | गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मंत्र- पुष्पम् ॥७०॥ अपारवृत्त्या स्तुतिमेकदंत गृहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मातभवैः पुराणैः सर्वैः परेशा- धिपते मया ते ॥ ७१ ॥ प्रदक्षिणा मानसकल्पितास्ता गृहाण लंबोदर भावयुक्ताः । संख्याविहीना विविधस्वरूपा भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥ नतिं ततो विनते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥ न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमंते मनसा गृहाण | दूर्वाकुरान् विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥ क्षमस्व विघ्नाधिपते सदीयान् सदापराधान् वि विधस्वरूपान् । भक्ति मदीयां सफलां कुरुष्व संप्रार्थयामि मनसा गणेश ॥ ७५ ॥ ततः प्रसन्नेन गजाननेन दत्तं प्र- सादं शिरसाभिवंद्य | स्वमस्तके तं परिधारयामि चित्तेन विश्वेश्वरमानतोसि ॥ ७६ ॥ उत्थाय विघ्नेश्वर एव तस्मा- द्वतस्ततस्त्वंतरधानशक्त्या | शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥ ७७ ॥ सर्वान्नमस्कृत्य त तोहमेव भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥ एवं त्रि-