पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ९३. गुरुवरप्रार्थनापंचरत्नस्तोत्रम् | श्रीगणेशाय नमः ॥ यं विज्ञातुं भृगुः स्वं पितरमपगतः पंचवारं यथावज्ज्ञानादेवामृताते: सततमनुपमं चिद्विवे- कादि लब्ध्वा । तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चि- दानंदमुक्तानंताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबंधो ॥ १ ॥ यस्मान्नश्यस्य जन्मस्थिति विलयमिमे तैत्तिरीयाः पठंति स्वाविद्यामात्रयोगात्सुखशयनतले मु ख्यतः स्वप्नवञ्च | तस्मै ० ॥२॥ यो वेदांतैकलभ्यः श्रुतिषु नियमितस्तैत्तिरीयैश्च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् । तस्मै० ॥ ३ ॥ यस्मिन्नेवावसन्नाः सकल निगमवाझौलयः सुप्तपुंसि प्रोक्तं तन्नाम यद्वन्नि- जमहिमगतध्वांततत्कार्यरूपे | तस्मै० ॥ ४ ॥ चित्त्वात्सं- कल्पपूर्व सृजति जगदिदं योगिवन्मायया यः स्वात्मन्येवा- द्वितीये परमसुखदृशि स्वमवनि निये | तस्मै ० ॥ ५ ॥ इत्यच्युतविरचितं गुरुवरप्रार्थनापंचरत्नस्तोत्रं संपूर्णम् || ९४. दक्षिणामूर्तिस्तोत्रम् | श्रीगणेशाय नमः ॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजाँ- तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया | यः साक्षी कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥ बीजस्यां- तरिवांकुरो जगदिदं प्राइनिर्विकल्पं पुनर्मायाकल्पित दे-