पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि | २१७ शकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृंभय- त्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरु० ॥ २ ॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्व- मसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्क- रणाद्भवेन्न पुनरावृत्तिर्भवांभोनिधौ तस्मै श्रीगुरु० ॥ ३ ॥ नानाछिद्रघटोदर स्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहि: स्पंदते । जानामीति तमेव आंतमनुभात्येतत्समस्तं जगत्तस्मै श्रीगुरु० ॥ ४ ॥ देह- प्राणमपींद्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालां- धजडोपमास्त्वहमिति भ्रांता भृशं वादिनः । मायाश- तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरु ० ॥ ५ ॥ राहुप्रस्तदिवाकरेंढुसदृशो मायासमाच्छादनारस- न्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्राग- स्वासमिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरु० ॥६॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमान महमित्यंतः स्फुरंत सदा | स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरु० ॥ ७ ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसं- बंधतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितस्तस्मै श्रीगुरु० ॥ ८ ॥ भूरंभांस्यनलोऽनिलोंबरमहनथो हि मांशुः पुमानित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्ट-