पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । ९५. मत्स्यस्तोत्रम् | श्रीगणेशाय नमः ॥ नूनं त्वं भगवान्साक्षाद्धरिर्नाराय- णोऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १ ॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यव्ययेश्वर | भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २ ॥ सर्वे लीला- वतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३ ॥ न तेऽरविन्द्राक्ष पदो- पसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथ- गात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४ ॥ इति श्रीमद्भागवतांतर्गतं मत्स्यस्तोत्रं संपूर्णम् ॥ ९६. कूर्मस्तोत्रम् | श्रीगणेशाय नमः || देवा ऊचुः । नमाम ते देव पदा- रविंदं प्रपन्नतापोपशमातपत्रम् | यन्मूलकेता यतयोंऽज- सोरुसंसारदुःखं बहिरुत्क्षिपति ॥ १ ॥ धातर्य दस्मिन्भव- ईश जीवास्तापत्रयेणोपहता न शर्म। आत्मंल्लभंते भग- वस्तवांघ्रिच्छायां सविद्यामत आश्रयेम ॥ २ ॥ मार्गति यत्ते मुखपद्मनीडैश्छंदः सुपर्णैऋषयो विविक्ते । यस्या- घमर्षोदसरिद्वरायाः पदंपदं तीर्थपदः प्रपन्नाः ॥ ३ ॥ यच्छ्रया श्रुतवत्या च भक्त्या संमृज्यमाने हृदयेऽव- STR