पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ बृहत्स्तोत्ररत्नाकरे चकास्ति शृंगोढघनेन भूयसा कुलाचलेंद्रस्य यथैव वि- भ्रमः ॥८॥ संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नी- मसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९ ॥ कः श्रधीतान्यतम- स्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयो- ऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ १० ॥ विधुन्वता वेदमयं निजं वपुर्जनस्तपः सत्यनि- वासिनो जयम् । सटाशिखोद्भूत शिवांबु बिंदुभिर्विमृज्य- माना भृशमीश पाविताः ॥ ११ ॥ स वै बत भ्रष्टमति- स्तवैष ते यः कर्मणां पारसपारकर्मणः । यद्योगमायागुण- योगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ॥ १२ ॥ इति श्रीमद्भागवतांतर्गतं वराहस्तोत्रं समाप्तम् ॥ ९८. नृसिंहस्तोत्रम् | श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नतोऽस्म्यनंताय दुरं- तशक्तये विचित्रवीर्याय पवित्रकर्मणे | विश्वस्य सर्गस्थि- तिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥ १ ॥ श्रीरुद्र उवाच । कोपकालो युगांतस्ते हतोऽयमसुरो- अल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २ ॥ इंद्र उवाच । प्रत्यानीताः परम भवता त्रायता नः स्व- भागा दैत्याक्रांतं हृदयकमलं त्वद्गृहं प्रत्यबोधि | काल- ग्रस्तं कियदिदमहो नाथ शुश्रूषतां से मुक्तिस्तेषां नहि