पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ बृहत्स्तोत्ररताकरे ऊचुः । हरे तवांघ्रिपंकजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयाऽसुरः समापितः ॥१२॥ यक्षा ऊचुः । वयमनुचरमुख्याः कर्मभिस्ते मनोन्चैस्त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पंचतां पंचविंशः ॥ १३ ॥ किंपुरुषा ऊचुः । वयं किंपुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिकृतः साधुभिर्यदा ॥ १४ ॥ वैतालिका ऊचुः । सभासु सत्रेषु तवामलं यशो गीत्वा सपर्या महतीं लभामहे । यस्तां व्यनैषीदृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥ १५ ॥ किन्नरा ऊचुः । वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः । भवता हरे सवृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६ ॥ विष्णुपार्षदा ऊचुः । अद्यैतद्धरिनररू- पमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सोऽयं ते वि- धिकर ईश विभशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७ ॥ इति श्रीमद्भागवतांतर्गतं नृसिंहस्तोत्रं संपूर्णम् ॥ ९९. लक्ष्मीनृसिंहस्तोत्रम् | श्रीगणेशाय नमः ॥ श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगींद्र भोग मणिरंजितपुण्यमूर्ते | योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १ ॥ ब्रह्मेरुद्रमरुदर्ककिरीड कोटिसंघट्टितांत्रिकमलामलकांति-