पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २२५ कांत । लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ २ ॥ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रवरार्दितस्य | आर्तस्य मत्सरनिदाघनि- पीडितस्य लक्ष्मीनृसिंह० ॥३॥ संसारकूपमतिघोरमगा- धमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य | दीनस्य देव कृपणापदमागतस्य लक्ष्मीनृसिंह० ॥ ४ ॥ संसारसागर- विशालकरालकालनक्रग्रहग्रसननिग्रहविग्रहस्य | व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह ० ॥ ५ ॥ संसार- वृक्षमघबीजमनंतकर्मशाखाशतं करणपत्रमनंगपुष्पम् । आरुह्य दुःखफलितं पततो दयालो लक्ष्मीनृसिंह० ॥६॥ संसारसर्पधनवऋभयोग्रतीव्रदंष्ट्राकरालविषदग्धविनष्टमू- तैंः । नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह • ॥ ७ ॥ संसारदावदहनातुरभीकरोरुज्वालावलीभिरति- दुग्धतनूरुहस्य | त्वत्पादपद्मसरसीशरणागतस्य लक्ष्मीनृ- सिंह० ॥ ८ ॥ संसारजालपतितस्य जगन्निवास सवेंद्रि- यार्थबडिशार्थझषोपमस्य | प्रोत्खंडितप्रचुरतालुकमस्त- कस्य लक्ष्मीनृसिंह० ॥ ९ ॥ संसारभीकरकरींद्रकलाभि- घात निष्पिष्टमर्मवपुषः सकलार्तिनाश | प्राणप्रयाणभव- भीतिसमाकुलस्य लक्ष्मीनृसिंह० ॥ १० ॥ अंधस्य मे हृत- विवेकमहाधनस्य चोरै: प्रभो बलिभियनामधेयैः | मोहांधकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंह ० ॥ ११ ॥ 0