पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | सर्वव्यापिन् जनार्दन | सत्वादिगुणभेदेन लोकव्यापारका- रण ॥ १ ॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वे- काद्भुतरूपाय निर्गुणाय गुणात्मने ॥ २ ॥ नमस्ते लोक- नाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मंगलात्मने ॥ ३ ॥ यस्यावताररूपाणि ह्यर्जयंति मुनी- श्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४ ॥ यं न जानंति श्रुतयो यं न जानंति सूरयः । तं नमामि जग- हेतुं मायनं तममायिनम् ॥ ५ ॥ यस्यावलोकनं चित्रं मायोपद्रववारणम् । जगद्रूपं जगत्पालं तं वंदे पद्मजांध- वम् ॥ ६ ॥ यो देवस्त्यक्तसंगानां शांतानां करुणार्णवः । करोति ह्यात्मना संग तं वंदे संगवर्जितम् ॥ ७ ॥ यत्पा- दाजजलक्किन्नसेवारंजितमस्तकाः । अवापुः परमां सिद्धिं तं वंदे सर्ववंदितम् ॥८॥ यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् | नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ ९ ॥ अजामिलोपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वंदे लोकसाक्षिणम् ॥ १० ॥ ब्रह्माद्या अपि ये देवा यन्मायापाशयंत्रिताः । न जायंति परं भावं तं वंदे सर्वनायकम् ॥ ११ ॥ हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वंदे ज्ञानसाक्षिणम् ॥ १२ ॥ यन्मुखाद्ब्राह्मणो जातो बाहुभ्यां क्षत्रियोऽजनि तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥ मन- 1 २२७