पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ बृहत्स्तोत्ररत्नाकरे सश्चंद्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिंगस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४ ॥ त्वमिंद्र पवनः सोमस्त्व- मीशानस्त्वमंतकः । त्वमग्निर्निर्ऋतिश्चैव वरुणस्त्वं दिवा- करः ॥ १५ ॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगंधर्वा नद्यो भूमिश्च सागराः ॥ १६ ॥ त्वमेव जगतामीशो यन्नामास्ति परात्परः । त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७॥ इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः | उवाच प्रांजलिर्भूत्वा हर्षाश्रुक्षा- लितस्तनी ॥ १८ ॥ अनुप्राह्मास्मि देवेश हरे सर्वादिका- रण | अकंटकश्रियं देहि मत्सुतानां दिवौकसाम् ॥१९॥ अंतर्यामिन् जगद्रूप सर्वभूतपरेश्वर | तवाज्ञातं किमस्तीह कि मां मोहयसि प्रभो ॥ २० ॥ तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्रास्मि देवेश रक्षोभिः परि- पीडिता ॥ २१ ॥ एतान्न हंतुमिच्छामि मस्सुता दितिजा यतः । तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥२२॥ इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षय- साध्वीं कृपयाभिपरितः ॥ २३ ॥ श्रीभगवानुवाच । प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव । यतः सप त्रीतनयेष्वपि वात्सल्यशालिनी ॥२४॥ त्वया च मे कृतं स्तोत्रं पठति भुवि मानवाः । तेषां पुत्रा धनं संपन्न हीयंते कदाचन ॥ २५ ॥ अंते मत्पदमाप्नोति यद्विष्णोः परमं शुभम् ॥२६॥ इति श्रीपद्मपुराणे वामनस्तोत्रं समाप्तम् ॥