पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामस्तोत्राणि । १०२. रामहृदयम् । श्रीगणेशाय नमः ॥ श्रीमहादेव उवाच । ततो रामः स्वयं ग्राह हनुमंतमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मा- नात्मपरात्मनाम् ॥ १ ॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ॥ २ ॥ बुद्ध्यवच्छिन्न चैतन्य मेकं पूर्णमथापरम् | आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः ॥ ३ ॥ साभासबुद्धेः कर्तृत्व- मविच्छिन्नेsचिकारिणि । साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः ॥ ४ ॥ आभासस्तु मृषाबुद्धिरविद्या- कार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः ॥ ५ ॥ अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । तत्त्व- मस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ६ ॥ ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाविद्या स्वका- र्यैश्च नश्यत्येव न संशयः ॥ ७ ॥ एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ॥८॥ मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ९ ॥ इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैद्रा- दपि राज्यतोऽधिकम् ॥१०॥ इति श्रीमदध्यात्मरामायणे बालकांडे श्रीरामहृदयं संपूर्णम् ॥