पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | १०३. रामस्तवराजः । श्रीगणेशाय नमः ॥ अस्य श्रीरामचंद्रस्तवराजस्तोत्रमं- त्रस्य | सनत्कुमार ऋषिः । श्रीरामो देवता | अनुष्टुप् छंदः । सीता बीजम् । हनुमान् शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः । सूत उवाच । सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् । धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्व- रम् ॥ १ ॥ युधिष्ठिर उवाच | भगवन्योगिनां श्रेष्ठ सर्व- शास्त्रविशारद । किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्ति- साधनम् ॥ २ ॥ श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिस त्तम ॥ वेदव्यास उवाच | धर्मराज महाभाग शृणु व क्ष्यामि तत्त्वतः ॥ ३ ॥ यत्परं यद्गुणातीतं यज्योतिरमलं शिवम् । तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥ ४ ॥ श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम् । ब्रह्महत्या- दिपापघ्नमिति वेदविदो विदुः ॥ ५ ॥ श्रीराम रामेति जना ये जपंति च सर्वदा । तेषां भुक्तिश्च मुक्तिश्व भवि- व्यति न संशयः ॥ ६ ॥ स्तवराजं पुरा प्रोक्तं नारदेन च धीमता | तत्सर्व संप्रवक्ष्यामि हरिध्यानपुरःसरम् ॥७॥ तापत्रयाभिशमनं सर्वाघौघनिकृंतनम् | दारिद्यदुःखश- मनं सर्वसंपत्करं शिवम् ॥ ८ ॥ विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् | नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९ ॥ अयोध्यानगरे रम्ये रत्नमंडपमध्यगे । २३१