पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ४. गणेशबाह्यपूजा । श्रीगणेशाय नमः | ऐल उवाच । बाह्यपूजां वद विभो गृत्समदप्रकीर्तिताम् । तेन मार्गेण विघ्नेशं भजिष्यसि नि- रंतरम् ॥ १॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । बाह्यां चकार विधिवत्तां शृणुष्व सुख- प्रदाम् ॥२॥ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण तं बाह्यांग चकार ह ॥ ३ ॥ आदौ वैदिकमंत्रं स गणानांत्वेति संपठन् । पश्चाच्छोकं समु चार्य पूजयामास विनम् ॥ ४॥ गृत्समद उवाच । चतु- र्बाहु त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतयेत् ॥५॥ आगच्छ ब्रह्मणां नाथ सुरासु- रवरार्चित | सिद्धिबुधादिसंयुक्त भक्तिग्रहणलालस ॥६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृही- तोऽहं सफलो मे भवोऽभवत् ॥७॥ रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशे- षतः ॥ ८ ॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९॥ सर्व- तीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥ रत्नप्रवालमुक्ताद्यैर- नध्यैः संस्कृतं प्रभो । अर्ध्य गृहाण हेरंब द्विरदानन तो- षकम् ॥ ११ ॥ दधिमधुघृतैर्युक्तं मधुपर्क गजानन । गृ हाण भावसंयुक्तं दत्तं मया नमोऽस्तु ते ॥ १२ ॥ पाद्ये च