पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे ॥ ५८ ॥ त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वंद्ववि- नाशहेतुम् | महाबलं वेदविधिं सुरेशं सनातनं राम- महं भजामि ॥ ५९ ॥ वेदांतवेद्यं कविमीशितारमनादि- मध्यांतमचिंत्यमाद्यम् | अगोचरं निर्मलमेकरूपं नमा- मि रामं तमसः परस्तात् ॥ ६० ॥ अशेषवेदात्मकमादि- संज्ञमजं हरिं विष्णुमनंतमाद्यम् । अपारसं वित्सुखमेक- रूपं परात्परं राममहं भजामि ॥ ६१ ॥ तत्त्वस्वरूपं पुरु- षं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रवि- मंडलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२ ॥ लोकाभि- रामं रघुवंशनाथं हरिं चिदानंदमयं मुकुंदम् । अशेषवि- द्याधिपतिं कर्वीद्रं नमामि रामं तमसः परस्तात् ॥ ६३ ॥ योगींद्रसंधैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् । न- तोऽस्मि नित्यं जगदेकनाथमादित्यवर्ण तमसः परस्तात् ॥ ६४ ॥ विभूतिदं विश्वसृजं विरामं राजेंद्रमीशं रघुवंश- नाथम् । अचिंत्यमव्यक्तमनंतमूर्ति ज्योतिर्मयं राममहं भजामि ॥ ६५ ॥ अशेषसंसारविहारहीनमादित्यगं पूर्ण- सुखाभिरामम् । समस्तसाक्षि तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥६६॥ मुनींद्रगुह्यं परिपूर्णकामं कला- निधिं कल्मषनाशहेतुम् । परात्परं यत्परमं पवित्रं नमामि रामं महतो महांतम् ॥ ६७ ॥ ब्रह्मा विष्णुश्च रुद्रश्च देवेंद्रो देवतास्तथा । आदित्यादिग्रहाश्चैव त्वमेव रघुनंदु-