पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे लमंगलात्मना विधाय रामायणकीर्तिमुत्तमाम् । चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ १ ॥ सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः । राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्व- मथाह राघवः ॥ २ ॥ कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम् । सौमित्रिरासादितशुद्ध- भावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३ ॥ सौमित्रिरुवाच | त्वं शुद्धबोधोऽसि हि सर्वदेहिनामात्मा- स्यधीशोऽसि निराकृतिः स्वयम् | प्रतीयसे ज्ञानदशां महामते पादाजभृंगाहितसंगसंगिनाम् ॥ ४ ॥ अहं प्रप- नोऽस्मि पदांबुजं प्रभो भवापवर्ग तव योगिभावितम् । यथांजसाज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम् ॥ ५ ॥ श्रुत्वाथ सौमित्रिवचोऽखिलं तदा ग्राह प्रपन्नार्तिहरः प्रसन्नधीः । विज्ञानमज्ञानतमोपशांतये श्रुतिमपन्न क्षितिपालभूषणः ॥ ६ ॥ श्रीराम उवाच । आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशु- द्धमानसः | समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गु- रुमात्मलब्धये ॥ ७ ॥ क्रिया शरीरोद्भवहेतुराहता प्रिया- प्रियौ तौ भवतः सुरागिणः | धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रिया चक्रवदीर्यते भवः ॥ ८ ॥ अज्ञानमेवा हि मूलकारणं तद्धानमेवात्र विधौ विधीयते । विद्यैव तन्ना- शविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ ९ ॥ २४०