पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २४१ नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमु द्भवेत् । ततः पुनः संसृतिरप्यवारिता तस्माद्दुधो ज्ञान- विचारवान्भवेत् ॥ १० ॥ ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम् । कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ ११ ॥ कर्मा- कृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमु क्षुणा । ननु स्वतंत्रा ध्रुवकार्यकारिणी विद्या न किंचिन्म- नसाप्यपेक्षते ॥ १२ ॥ न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान् । तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥ केचि- द्वदंतीति वितर्कवादिनस्तदप्यस दृष्टविरोधकारणात् । देहाभिमानादभिवर्धते क्रिया विद्यागताहंकृतितः प्रसि ध्यति ॥ १४ ॥ विशुद्धविज्ञानविरोचनांचिता विद्यात्म- वृत्तिश्वरमेति भण्यते । उदेति कर्माखिलकारकादिभिर्नि- हंति विद्याऽखिलकारकादिकम् ॥ १५ ॥ तस्मात्त्यजेत्कार्य- मशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत् । आत्मा- नुसंधानपरायणः सदा निवृत्तसर्वेद्रियवृत्तिगोचरः ॥ १६॥ यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादक- र्मणाम् । नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परा त्मानमथ त्यजेत्कियाः ॥ १७ ॥ यदा परात्मात्मविभेद- भेदकं विज्ञानमात्मन्यवभाति भास्वरम् । तदैव माया .