पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे प्रविलीयतेंऽजसा सकारका कारणमात्मसंसृतेः ॥ १८ ॥ श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि का- र्यकारिणी | विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति ॥ १९ ॥ यदि स्म नष्टा न पुनः प्रसू- यते कर्ताहमस्येति मतिः कथं भवेत् । तस्मात्स्वतंत्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥२०॥ सा तैत्तिरीय श्रुतिराह सादरं न्यासं प्रशस्ताखिल कर्मणां स्फुटम् । एतावदित्याह च वाजिनां श्रुतिज्ञीनं विमो क्षाय न कर्मसाधनम् ॥ २१ ॥ विद्यासमत्वेन तु दर्शि- तस्त्वया ऋतुर्न दृष्टांत उदाहृतः समः । फलैः पृथक्त्वा द्वहुकारकैः ऋतुः संसाध्यते ज्ञानमतो विपर्ययम् ॥२२॥ सप्रत्यवायो ह्यहमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्वद र्शिनः | तस्माद्दुधस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्म विधिप्रकाशितम् ॥ २३ ॥ श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः । विज्ञाय चैका- त्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकंपनः ॥२४॥ आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ वि- धानतः । तत्त्वंपदार्थो परमात्मजीवकावसीति चैकाम्य- मथानयोर्भवेत् ॥ २५ ॥ प्रत्यक्परोक्षादिविरोधमात्मनो- विहाय संगृह्य तयोश्चिदात्मताम् । संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥