पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ बृहत्स्तोत्ररत्नाकरे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते । अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥३६॥ यदन्यदन्यत्र विभाव्यते भ्रमादध्यास- मित्याहुरमुं विपश्चितः । असर्पभूतेऽहिविभावनं यथा रज्वादिके तद्वदपीश्वरे जगत् ॥ ३७ ॥ विकल्पमायारहिते चिदात्मकेऽहंकार एष प्रथमः प्रकल्पितः । अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥३८॥ इच्छादिरागादिसुखादिधर्मिकाः सदा धियः संसृतिहे- तवः परे । यस्मात्प्रसुतौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥३९॥ अनाद्यविद्योद्भवबुद्धिबिंबितो जीवः प्रकाशोयमितीर्यते चितः । आत्मा धियः साक्षितया पृथक् स्थितो बुद्ध्या परिच्छिन्नपरः स एव हि ॥ ४० ॥ चिद्धिंबसाक्षात्मधियां प्रसंगतस्त्वेकत्र वातादनलाक्कलो- हवत् । अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥४१॥ गुरोः सकाशादपि वेदवाक्यतः सं जातविद्यानुभवो निरीक्ष्य तम् । स्वात्मानमात्मस्थमुपा- धिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥४२॥ प्रकाशरू पोऽहमजोऽहमद्वयोऽसकृद्विभातोऽहमतीव निर्मलः । वि- शुद्धविज्ञानघनो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥४३॥ सदैव मुक्तोऽहमचिंत्यशक्तिमानतींद्रियज्ञानमवि क्रियात्मकः । अनंतपारोहमहर्निशं बुधैर्विभावितोऽहं हृदि