पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । वेदवादिभिः ॥ ४४ ॥ एवं सदात्मानमखंडितात्मना वि चार्यमाणस्य विशुद्धभावना | हन्यादविद्यामचिरेण कारकै रसायनं यदुपासितं रुजः ॥ ४५ ॥ विविक्त आसीन उपारतेंद्रियो विनिर्जितात्मा विमलांतराशयः । विभाव- येदेकमनन्यसाधनो विज्ञानहक्केवल आत्मसंस्थितः ॥ ४६॥ विश्वं यदेतत्परमात्मदर्शनं विलापयेदात्मनि सर्वकारणे । पूर्णश्चिदानंदमयोऽवतिष्ठते न वेद बाह्यं न च किंचिदांतर- म् ॥४७॥ पूर्व समाधेरखिलं विचिंतयेदोंकारमात्रं सचरा- चरं जगत् । तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान बोधतः ॥ ४८ ॥ अकारसंज्ञः पुरुषो हि वि- श्वको कारकस्तैजस ईर्यते क्रमात् । प्राज्ञो मकारः परि- पठ्यतेऽखिलैः समाधिपूर्व न तु तत्वतो भवेत् ॥ ४९ ॥ विश्वं स्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थि- तम् । ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्ण प्रणवस्य चांतिमम् ॥ ५० ॥ मकारमध्यात्मनि चिद्धने परे विला- पयेत्याज्ञमपीह कारणम् । सोहं परं ब्रह्म सदा विमुक्ति- मद्विज्ञानहङ्युक्त उपाधितोऽमलः ॥ ५१ ॥ एवं सदा जा- तपरात्मभावनः स्वानंदतुष्टः परिविस्मृताखिलः । आस्ते स नित्यात्मसुखप्रकाशक: साक्षाद्विमुक्तोऽचलवारिसिंधु- चत् ॥५२॥ एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेद्रि- यगोचरस्य हि । विनिर्जिताशेषरिपोरहं सदा दृश्यो भ .