पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे वेयं जितपद्रुणात्मनः ॥ ५३ ॥ ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः प्रारब्धमश्नन्न- भिमानवर्जितो मय्येव साक्षात्रविलीयते ततः ॥ ५४ ॥ आदौ च मध्ये च तथैव चांततो भवं विदित्वा भयशो- ककारणम् । हित्वा समस्तं विधिवादचोदितं भजेत्स्वमा- त्मानमथाखिलात्मनाम् ॥५५॥ आत्मन्यभेदेन विभाव- यन्निदं भवत्यभेदेन मयात्मना तदा । यथा जलं वारिनिधौ यथा पयः क्षीरे वियद्व्योन्यनिले यथानिलः ॥ ५६ ॥ इत्थं यदीक्षेत हि लोकसंस्थितो जगन्मृषैवेति विभावय- न्मुनिः । निराकृतत्वाच्छुतियुक्तिमानतो यथेंदुभेदो दिशि दिग्भ्रमादयः ॥५७ ॥ यावन्न पश्येदखिलं मदात्मकं ताव- न्मदाराधनतत्परो भवेत् । श्रद्धालुरत्यूजितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८ || रहस्यमेतच्छु- तिसारसंग्रहं मया विनिश्चित्य तवोदितं प्रिय । यस्त्वेत- दालोचयतीह बुद्धिमान्स मुच्यते पातकराशिभिः क्षणात् ॥ ५९ ॥ भ्रातर्यदीदं परिदृश्यते जगन्मायैव सर्व परिहत्य चेतसा | मद्भावनाभावितशुद्धमानसः सुखी भवानंद- मयो निरामयः ॥६०॥ यः सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम् । सोऽहं स्वपादांचितरे- णुभि: स्पृशन्पुनाति लोकत्रितयं यथा रविः ॥ ६१ ॥ विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव ।