पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ बृहत्स्तोत्ररत्नाकरे भावं प्रतिपनं वंदे रामं मरकतवर्ण मथुरेशम् ॥ ८ ॥ श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः । रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ ९ ॥ इति श्रीमदध्या- त्मरामायणे युद्धकांडे ब्रह्मदेवकृतं रामस्तोत्रं संपूर्णम् ॥ १०७. जटायुकृतरामस्तोत्रम् | श्रीगणेशाय नमः ॥ जटायुरुवाच । अगणितगुणमप्रमेय- माद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरमपरमं परा- त्मभूतं सततमहं प्रणतोऽस्मि रामचंद्रम् ॥ १ ॥ निरव- धिसुखमिंदिराकटाक्षं क्षपितसुरेंद्रचतुर्मुखादिदुःखम् । नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥ २ ॥ त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहि- तप्रदानम् | शरणदमनिशं सुरागमूले कृतनिलयं रघुनं- दनं प्रपद्ये ॥३॥ भवविपिनदवाग्झिनामधेयं भवमुखदैव- तदैवतं दयालुम् । दनुजपतिसहस्त्रकोटिनाशं रवितन- यासदृशं हरिं प्रपद्ये ॥४॥ अविरतभवभावनातिदूरं भव- विमुखैमुनिभिः सदैव दृश्यम् । भवजलधिसुतारणांत्रि- पोतं शरणमहं रघुनंदनं प्रपद्ये ॥५॥ गिरिशगिरिसुताम- नोनिवास गिरिवरधारिणमीहिताभिरामम् । सुरवरदनु जेंद्रसेवितांधिं सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥ परधन- परदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् । पर