पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २५५ स्वबंधुशोककर्षणं नमामि राममीश्वरम् ॥ ६ ॥ गतारि- राज्यरक्षणं प्रजाजनार्तिभक्षणम् | कृतास्तमोहलक्ष्मणं नमामि राममीश्वरम् ॥ ७॥ हृताखिलाचलाभरं स्वधामनी- तनागरम् ॥ जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥८॥ इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरंतरं भयं भवोद्भवं न विंदते ॥ ९ ॥ इति श्रीपरमहंस स्वामिब्रह्मा- नंदविरचितं श्रीरामाष्टकं संपूर्णम् ॥ ११०. श्रीमहादेवकृतरामस्तुतिः । श्रीगणेशाय नमः ॥ श्रीमहादेव उवाच । नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय। किरीटहारां- गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १ ॥ त्वमान दिमध्यांतविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽन- वद्यः ॥ २ ॥ लीलां विधत्से गुणसंवृतस्त्वं प्रसन्नभक्तानु- विधानहेतोः । नानाऽवतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञा- निभिरेव नित्यम् ॥ ३ ॥ स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः । उपर्यधो भान्वनिलोडु- पौषधीप्रवर्षरूपोऽवसि नैकधा जगत् ॥ ४ ॥ त्वमिह दे- हभृतां शिखिरूपः पचसि भक्तमशेषमजस्रम् | पवनपंच- करूपसहायो जगदखंडमनेन बिभर्षि ॥ ५ ॥ चंद्रसूर्यशि- खिमध्यगतं यत्तेज ईश चिदशेषतनूनाम् | प्राभवत्तनु- P