पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे त्पादपद्मप्रसादात्रिलोकाधिपत्याभिमानो विनष्टः ॥ ६ ॥ स्फुरद्रलकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चंद्रवक्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥ ७॥ सुराधीशनीलाभ्रनीलांगकांति विराधादिरक्षोवधाल्लोक- शांतिम् । किरीटादिशोभं पुरारातिलाभं भजे रामचंद्र रघूणामधीशम् ॥ ८ ॥ लसच्चंद्र कोटिप्रकाशादिपीठे समा- सीन मेकं समाधाय सीताम् । स्फुरद्धेमवर्णी तडित्युंजभा- सां भजे रामचंद्र निवृत्तार्तितंद्रम् ॥ ९॥ इति श्रीमदध्या- हमरामायणे युद्धकांडे इंद्रकृतं रामस्तोत्रं संपूर्णम् ॥ ११३. रामचंद्राष्टकम् । २६० श्रीगणेशाय नमः ॥ ॐ चिदाकारो धाता परमसुखदः पावनतनुर्मुनींदैयोगदैर्यतिपतिसुरेंद्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयांगः सुरगुरू रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १॥ मुकुंदो गोविंदो जनकतनया लालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी । गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥२ ॥ धराधीशोऽधीशः सुर- नरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभि- तवपुः | समासीनः पीठे रविशतनिभे शांतमनसो रमा- नाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥ वरेण्यः शारण्यः कपिपतिसखा चांतविधुरो ललाटे काश्मीरो