पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णस्तोत्राणि । ११७. त्रैलोक्यमंगलकवचम् । श्रीगणेशाय नमः ॥ नारद उवाच | भगवन्सर्वधर्मज्ञ क वचं यत्प्रकाशितम् | त्रैलोक्यमंगलं नाम कृपया कथय प्रभो ॥ १ ॥ सनत्कुमार उवाच । शृणु वक्ष्यामि विरेंद्र कवचं परमाद्भुतम् | नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ २ ॥ ब्रह्मणा कथितं मह्यं परं त्रेहादामि ते । अ- तिगुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम् ॥ ३॥ यद्धृत्वा पठना- ब्रह्मा सृष्टिं वितनुते ध्रुवम् । यद्धृत्वा पठनात्पाति महाल- क्ष्मीजंगत्रयम् ॥ ४ ॥ पठनाद्धारणाच्छंभुः संहर्ता सर्वमं त्रवित् | त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥ ५ वरहतान् जघानैव पठनाद्धारणाद्यतः । एवमिंद्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ६॥ इदं कवचमत्यंतगुप्तं कुत्रापि नो वदेत् । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ७ ॥ शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् । त्रैलोक्यमंग- लस्यास्य कवचस्य प्रजापतिः ॥ ८ ॥ ऋषिश्छंदश्व गायत्री देवो नारायणः स्वयम् | धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ९ ॥ प्रणवो मे शिरः पातु नमो नारायणाय च । भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥ १० ॥ कीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः । क्लीं कृष्णाय