पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २८३ तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६ ॥ राजवल्लभतामे- ति भवेत्सर्वजनप्रियः । अचलां श्रियमाप्नोति स वाग्मी जा- यते ध्रुवम् ॥ १७ ॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे गोपालस्तोत्रं समाप्तम् ॥ १२६. कृष्णाष्टकम् । श्रीगणेशाय नमः ॥ श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेद- विषयो धियां साक्षी शुद्धो हरिरसुरहंताजनयनः । गढ़ी शंखी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥१॥ पतः सर्व जातं विय- दनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसु- खांशेन मधुहा | लये सर्वे स्वस्मिन् हरति कलया यस्तु स विभुः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥ असूनायम्यादौ यमनियममुख्यैः सुकरणैर्निरुध्येदं चित्तं हृदि विलयमानीय सकलम् | यमीड्यं पश्यंति प्र- वरमतयो मायिनमसौ शरण्यो लोकेशो मम० ॥ ३ ॥ पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा यमित्या- दौ वेदो वदति जगतामीशममलम् । नियंतारं ध्येयं मुनिसुरनृणां मोक्षदमसौ शरण्यो लोकेशो मम० ॥ ४ ॥ महेंद्रादिदेवो जयति दितिजान्यस्य बलतो न कस्य स्वा तंत्र्यं क्वचिदपि कृतौ यत्कृतिमृते | कवित्वादेर्गव परिह- रति योऽसौ विजयिनः शरण्यो लोकेशो मम० ॥५॥ वि -