पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे सर्वाजित जगज्जेतर्जीवजीव मनोहर । रतिबीज रतिस्वा- मिन् रतिप्रिय नमोऽस्तु ते ॥ ३ ॥ शश्वद्योषिदधिष्ठान योषिप्राणाधिकप्रिय । योषिद्वाहन योषास्त्र योषिद्वंधो नमोऽस्तु ते ॥४॥ पतिसाध्य कराशेषरूपाधार गुणाश्रय | सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५ ॥ शश्वद्यो- निकृताधार स्त्रीसंदर्शनवर्धन । विदग्धानां विरहिणां प्राणांतक नमोऽस्तु ते ॥ ६ ॥ अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् | अनूहरूपभक्तेषु कृपासिंधो नमोऽस्तु ते ॥७॥ तपस्विनां च तपसां विघ्नबीजाय लीलया । मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते ॥ ८ ॥ तपःसा- ध्यस्तथाराध्यः सदैवं पांचभौतिकः | पंचेंद्रियकृताधार पंचबाण नमोऽस्तु ते ॥९॥ मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः | विरराम नम्रवक्रा बभूव ध्यानतत्परा ॥ १० ॥ उक्तं माध्यंदिने कांते स्तोत्रमेतन्मनोहरम् । पुरा दुर्वाससा दत्तं मोहिन्यै गंधमादने ॥ ११॥ स्तोत्रमेतन्महा- पुण्यं कामी भक्त्या यदा पठेत् । अभीष्टं लभते नूनं निष्कलंको भवेद्धुम् ॥ १२ ॥ चेष्टां न कुरुते कामः कदा- चिदपि तं प्रियम् । भवेदरोगी श्रीयुक्तः कामदेवसम- प्रभः । वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥ १३ ॥ इति श्रीमोहिनी कृतकृष्णस्तोत्रं समाप्तम् ॥ १२९. ब्रह्मदेवकृतकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ ब्रह्मोवाच | रक्ष रक्ष हरे मां च