पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ बृहत्स्तोत्ररत्नाकरे सानंद सुंदरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं बल्लवीसुतम् । राधासेवितपादानं राधावक्षःस्थलस्थितम् ॥ २ ॥ राधानुगं राधिकेष्टं राधा- पहृतमानसम् | राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥ राधाहृत्पद्ममध्ये च वसंतं संततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४ ॥ ध्यायते योगिनो योगान् सिद्धाः सिद्धेश्वराव यम् । तं ध्यायेत्सं- ततं शुद्धं भगवंतं सनातनम् ॥ ५ ॥ सेवंते सतत संतो ब्रह्मेशशेषसंज्ञकाः । सेवंते निर्गुणं ब्रह्म भगवंतं सनात- नम् ॥ ६ ॥ निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवंतं सनातनम् ॥ ७ ॥ यं सृष्टेरा- दिभूतं च सर्वबीजं परात्परम् | योगिनस्तं प्रपद्यंते भग- वंतं सनातनम् ॥ ८ ॥ बीजं नानावताराणां सर्वकारण- कारणम् । वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ ९ ॥ योगिनस्तं प्रपद्यंते भगवंतं सनातनम् । इत्येवमुक्त्वा गंधर्वः पपात धरणीतले ॥ १० ॥ ननाम दंडवद्भूमौ देव- देवं परात्परम् । इति तेन कृतं स्तोत्रं यः पठेयतः शु. चिः ॥ १ ॥ ॥ इहैव जीवन्मुक्तश्च परं याति परां गतिम् । हरिभक्त हरेर्दास्य गोलोके च निरामयः । पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १२ ॥ इति श्रीनारदुपंचरात्रे श्रीकृष्णस्तोत्रं संपूर्णम् ॥