पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २९३ क्षरो मंत्रः कवचं सर्वलक्षणम् | दत्तमेतकुमाराय पुष्करे ब्रह्मणा पुरा ॥ १९॥ तेन चांगिरसे दत्तं गुरवेंऽगिरसां मुने । इदमिंद्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ २० ॥ इह प्राध्य दृढां भक्तिमंते दास्यं लभेब्रुवम् । जन्ममृत्युज- राव्याधिशोकेभ्यो मुच्यते नरः ॥ २१ ॥ न हि पश्यति स्वप्नेपि यमदूतं यमालयम् ॥ २२ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे इंद्रकृतं कृष्णस्तोत्रं समाप्तम् ॥ १३३. विप्रपत्नीकृतकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ विप्रपत्य ऊचुः । त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्सः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥ सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः । ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३ ॥ यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर । महाविराणमहावि. ष्णुस्त्वं तस्य जनको विभो ॥४॥ तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः । वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥ महदादिसृष्टिसूत्रं पंचतन्मात्र- मेव च | बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६॥ सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयंज्योतिः सर्वानंदः सनातनः ॥ ७ ॥ अहो आकार-