पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | 40 प्राणस्तनंधयमवैमि परं पुमांसम् ॥ ४ ॥ आविर्भवत्यनि- भृताभरणं पुरस्तादाकुंचितैकचरणं निहितान्यपादम् । राधानिबद्धमुकुरेण निबद्धतालं नाथस्य नंदभवने नव- नीतनाट्यम् ॥ ५ ॥ कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः सं- दश्य मातुरनिशं कुचचूचुकाग्रम् | नंदस्य वक्रमवलो- कयतो मुरारेमैदस्मितं मम मनीषितमातनोतु ॥ ६ ॥ हतु कुंभे विनिहितकरः स्वादु हैयंगवीनं दृष्ट्वा दामग्रह- णचटुलां मातरं जातरोषाम् । पायादीषत्प्रचलितपदो ना- पगच्छन्न तिष्ठन्मिथ्यागोपः सपदि नयने मीलयन् विश्व- गोप्ता ॥ ७ ॥ व्रजयोषिदपांगवेदनीयं मथुराभाग्यमन- न्यभोग्यमीडे । वसुदेववधूस्तनंधयं तत् किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८ ॥ परिवर्तितकंधरं भयेन स्मि तफुल्लाघरपल्लवं स्मरामि | विटपित्वनिरासकं कयोश्नि- द्विपुलोलूखलकर्षकं कुमारम् ॥ ९ ॥ निकटेषु निशामया- मि नित्यं निगमांतैरघुनापि मृग्यमाणम् | यमलार्जुनदृष्ट- बालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥१०॥ पदवी- मदवीयसीं विमुक्तेरटवीसंपदमंबुवाहयंतीम् । अरुणाध- रसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥ ११ ॥ अनिमेषनिषेवणीयमक्ष्णोरजहद्यौवनमाविरस्तु चित्ते । कलहायितकुंतलं कलापैः करुणोन्मादकविग्रहं मनो मे ॥ १२ ॥ अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितबल्लवी- विमोघैः । अनघस्मितशीतलैरसौ मामनुकंपासरिदंबुजै- २९५