पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे खुरनिर्धूतोत्कृत धूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृही. तानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५ ॥ स्नानव्याकुलयो- षिद्वस्त्रमुपादायागमुपारूढं व्या दित्सन्तीरथ दिग्वत्राद्युप- दातुमुपाकर्षन्तम् । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरण्य- न्तस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥ कान्तं कारणकारणमादिमनादि कालमनाभासं कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं सुनृत्यन्तम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्र- यगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥ वृन्दा- वनभुवि वृन्दारकगणवृन्दाराधितवंदेऽहं ( ? ) कु- न्दाभामलमन्द स्मेरसुधानन्दं सुहृदानन्दम् । वन्द्या- शेष महामुनिमानसवन्द्यानन्दपदद्वन्द्व वन्द्याशेषगुणाबिंध प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥ गोविन्दाष्टकमे- तदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दांघ्रिसरोजध्यान- सुधाजलधौतसमस्ताघो गोविन्दं परमानन्दामृतमन्तस्थं स समभ्येति ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचा- र्य श्रीमच्छङ्कराचार्यविरचितं गोविन्दाष्टकस्तोत्रं संपूर्णम् ॥ NG · १ पाठान्तरं निर्धूतोधूत २ पाठान्तरं कालिन्दीगतकालिय- शिरसि नृत्यन्तं मुहुर्नृत्यन्तम्.