पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररखाकरे र्भाति य एकोऽखिलश क्तिस्तं गोपालं संततकालं प्रति वंदे ॥ ८॥ श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः । हित्वा तूर्ण पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥९॥ इति श्रीपरम- हंसस्वामिब्रह्मानंदविरचितं श्रीगोपालाष्टकं संपूर्णम् ॥ १३७ श्रीकृष्णाष्टकम् । श्रीगणेशाय नमः ॥ चतुर्मुखादिसंस्तुतं समस्तसात्वतानु- तम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १ ॥ बकादिदैत्यकालकं सगोपगोविपालकम् । मनोहरासि- तालकं नमामि राधिकाधिपम् ॥ २ ॥ सुरेंद्रगर्वगंजन विरिंचिमोहभंजनम् । व्रजांगनानुरंजनं नमामि राधि- काधिपम् ॥ ३ ॥ मयूरपिच्छमंडनं गजेन्द्रदंतखंडनम् । नृशंसकंसदंडनं नमामि राधिकाधिपम् ॥ ४ ॥ प्रदत्तवि- प्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ५ ॥ धनंजयाजयावहं महाचमूक्षयाव- हम् । पितामहव्यथापहं नमामि राधिकाधिपम् ॥ ६ ॥ मुनींद्रशापकारणं यदुप्रजापहारणम् । धराभरावतारणं नमामि राधिकाधिपम् ॥ ७ ॥ सुवृक्षमूलशायिनं मृगा- रिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधि- काधिपम् ॥ ८ ॥ इदं समाहितो हितं वराष्टकं सदा मुद्रा । जपअनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ ९ ॥