पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । ३०१ इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीकृष्णाष्टकं संपूर्णम् ॥ sing १३८. सत्यव्रतोक्तदामोदरस्तोत्रम् । श्रीगणेशाय नमः ॥ सिंधुदेशोद्भवो विप्रो नाम्ना सत्यव्रतः सुधीः । विरक्त इंद्रियार्थेभ्यस्त्यक्त्वा पुत्रगृहादिकम् ॥ १॥ वृंदावने स्थितः कृष्णमारिराध दिवानिशम् | निःस्वः सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानसः ॥ २ ॥ कार्तिके पूज- यामास प्रीत्या दामोदरं नृप । तृयीयेऽह्नि सकृद्भुक्ते पत्रं मूलं फलं तथा ॥ ३ ॥ पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम् ॥ ४ ॥ सत्यव्रत उवाच | नमा- मीश्वरं सच्चिदानंदरूपं लसत्कुंडलं गोकुले भ्राजमानम् | यशोदाभियोलूखले धावसानं परामृष्टमत्यंततो दूतगोप्या ॥ ५ ॥ रुदंतं मुहुनैत्रयुग्मं मृजंतं कराम्भोजयुग्मेन सातं- कनेत्रम् | मुहुः श्वासकं पत्रिरेखांककंठं स्थितं नौमि दामो- दरं भक्तवंद्यम् ॥ ६॥ वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह । इदं ते वपुनथि गोपाल- बालं सदा मे मनस्याविरास्तां किसन्यैः ॥ ७ ॥ इदं ते मुखांभोजमत्यंतनीलैर्वृतं कुंतलैः स्निग्धवकैश्च गोप्या | मुहुश्रुंबितं बिंबरक्ताधरं मे मनस्याविरास्तामल लक्षलाभैः ||८|| नमो देव दामोदरानंत विष्णो प्रसीद प्रभो दुःख- जालाब्धिमभम् । कृपादृष्टिवृष्टयाऽतिदीनं च रक्ष गृहा- A