पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे णेश मामज्ञमेवाक्षिदृश्यम् ॥ ९ ॥ कुबेरात्मजौ वृक्षमूर्ती च यवत्वया मोचितौ भक्तिभाजौ कृतौ च । तथा प्रेम- भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ १० ॥ नमस्ते सुदाम्ने स्फुरद्दीप्तधाम्ने तथोरस्थविश्वस्य धाम्ने नमस्ते । नमो राधिकायै त्वदीयप्रियायै नमोऽनं- तलीलाय देवाय तुभ्यम् ॥ ११ ॥ नारद उवाच । सत्य- व्रतद्विजस्तोत्रं श्रुत्वा दामोदरो हरिः । विद्युल्लीलाचम- त्कारो हृदये शनकैरभूत् ॥ १२ ॥ इति श्रीसत्यव्रतकृत- दामोदरस्तोत्रं संपूर्णम् ॥