पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | २३ प्रम- ब्रह्म हि गणः । स चेशश्नोत्पत्तिस्थितिलयकरोऽयं थको यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८ ॥ गकारः कंठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कंठाधो जठरसदृशाकार इति च । अधोभावः कठ्यां चरण इति हीशोस्य च तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवः सुवः ॥ ९ ॥ गणेशेति व्यर्णात्मकमपि वरं नाम सुखदं सकृ- प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् | गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥ १० ॥ गणेशेत्याह्वयः प्रवदति मुहुस्तस्य पुरतः प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा । स्वरू- पस्य ज्ञानं त्वमुक इति नाम्नास्य भवति प्रबोध: सुप्तस्य स्वखिलमिह सामर्थ्यममुना ॥ ११ ॥ गणेशो विश्वेsस्मि- स्थित इह च विश्वं गणपतौ गणेशो यत्रास्ते धृतिमतिर - मैश्वर्यमखिलम् | समुक्तं नामैकं गणपतिपदं मंगलमयं तदेकास्ये दृष्टे सलकविबुधास्येक्षणसमम् ॥ १२ ॥ बहु- शैर्व्यासः स्मृत उत गणेशे च हृदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वनचयवत् | वने विद्यारंभे युधि रिपु- भये कुत्रगमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ॥ १३ ॥ गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधिर्द- यालुरंबो वरद इति चिंतामणिरजः । वरानीशो ढुंढिर्ग- जवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ १४॥ महेशोऽयं विष्णुः सकविरविरिंदुः कमलजः