पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे देवगंधर्व किन्नरनरनागैरिति विचित्य नरहरिरूपेण नखा- ग्रभिन्नोरुं दष्टदंतच्छदं त्यक्तासुं कृतवानसि ॥ ४ ॥ पुनरिह त्रिजगज्जयिनो बलेः सत्रे शऋानुजो बटुवामनो दैत्यसंमोहनाय त्रिपदभूमियान्चच्छलेन विश्वकायस्तदु- त्सृष्टजलसंस्पर्श विवृद्ध मनोभिलाषस्त्वं भूतले बलेदौंवा- रिकत्वमंगीकृतमुचितं दानफलम् ॥ ५ ॥ पुनरिह हैहया- दिनृपाणाममितबलपराक्रमाणां नानामदोल्लंधितमर्यादा- वर्त्मनां निधनाय भृगुवंशजो जामदध्यः पितृहोमधेनु- हरणप्रवृद्धमन्युवशात् त्रिःसप्तकृत्वो निःक्षत्रियां पृथिवीं कृतवानसि परशुरामावतारः || ६ || पुनरिह पुलस्त्यवं- शावतंसस्य विश्रवसः पुत्रस्य निशाचरस्य रावणस्य लो- कत्रयतापनस्य निधनमुररीकृत्य रविकुलजातदशरथा- त्मजो विश्वामित्रादत्राण्युपलभ्य वने सीताहरणवशात्र- वृद्धमन्युनाम्बुधिं वानरैर्निर्बंध्य सगणं दशकंधरं हतवा- नसि रामावतारः ॥ ७ ॥ पुनरिह यदुकुलजलधिकला- निधिः सकलसुरगणसेवितपादारविंदद्वंद्वो विविधदानव- दैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजो रामाव- तारो बलभद्रस्त्वमसि ॥ ८ ॥ पुनरिह विधिकृतवेदधर्मा- नुष्ठानविहितनानादर्शनसघृणः संसारकर्मत्यागविधिना ब्रह्माभासविलासचातुरीं प्रकृतिविमाननामसंपादयन् बु. द्धावतारस्त्वमसि ॥ ९ ॥ अधुना कलिकुलनाशावतारो