पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्ताकरे राशिभिः शरीरेंद्रियाश्रितैः । त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनार्थिनाम् ॥ ६ ॥ तव गुणा- लयं नाम पावनं कलिमलापह कीर्तयंति ये । भवभय क्षयं तापतापिता मुहुरहो जनाः संसरंति नो ॥ ७ ॥ तव जनुः सतां मानवर्धनं जिनकुलक्षयं देवपालकम् । कृतयुगापकं धर्मपूरकं कलिकुलांतकं शं तनोतु मे ॥८॥ मम गृहं पतिपुत्रनपतृकं गजरथैर्ध्वजैश्चामरैर्धनैः । मणि- वरासनं सत्कृतिं विना तव पदाजयोः शोभयंति किम् ॥ ९ ॥ तव जगद्वपुः सुंदरस्मितं मुखमनिंदितं सुंदरार- वम् । यदि न मे प्रियं वल्गुचेष्टितं परिकरोत्यहो मृत्यु- रस्त्विह ॥ १० ॥ हयचर भयहरकरहरशरणखरतरवर- शर दशबलदमन | जय हृतपरभर भववरनाशन शश- धरशतसमरसभरमदन ॥ ११ ॥ इति श्रीकठिकपुराणे सुशांताकृतं कल्किस्तोत्रं संपूर्णम् ॥ .