पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे १४७. गंगास्तवः । श्रीगणेशाय नमः ॥ सूत उवाच ॥ शृणुध्वं मुनयः सर्वे गंगास्तवमनुत्तमम् । शोकमोहहरं पुंसामृषिभिः परि कीर्तितम् ॥ १॥ ऋषय ऊचुः । इयं सुरतरंगिणी भवन- वारिधेस्तारिणी स्तुता हरिपदांबुजादुपगता जगत्संसदः । सुमेरुशिखरामरप्रियजलामलक्षालिनी प्रसन्नवदना शुभा भवभयस्य विद्वाविणी ॥ २ ॥ भगीरथरथानुगा सुरकरीं- द्वदर्षापहा महेशमुकुटप्रभा गिरिशिरःपताका सिता । सुरासुरनरोरगैरजभवाच्युतैः संस्तुता विमुक्तिफलशा- लिनी कलुषनाशिनी राजते ॥ ३ ॥ पितामहकमंडलुप्रभ वमुक्तिबीजा लता श्रुतिस्मृतिगणस्तुतद्विजकुलालवाला- वृता । सुमेरुशिखराभिदा निपतिता त्रिलोकावृता सुधर्म- फलशालिनी सुखपलाशिनी राजते ॥ ४ ॥ चरद्विहगमा- लिनी सगरवंशमुक्तिप्रदा मुनींद्रवरनंदिनी दिवि मता च मंदाकिनी | सदा दुरितनाशिनी विमलवारिसंदर्शन- प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ ५ ॥ महाभि- पसुतांगना हिमगिरीशकूटस्तना सफेनजलहासिनी सि- तमरालसञ्चारिणी । चललहरिसत्करा वरसरोजमाला- धरा रसोल्लसितगामिनी जलधिकामिनी राजते ॥ ६ ॥ क्वचिन्मुनिगणैः स्तुता क्वचिदनंतसंपूजिता क्वचित्कलकल- स्वना क्वचिदधीरयादोगणा | क्वचिद्रविकरोजवला क्वचि