पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ बृहत्स्तोत्ररलाकरे दाने प्रभवति सुगुणा काश्यते ब्रह्म यस्याम् । सेयं राज्ञी प्रधाना प्रियवचनकरी मुक्तिदानेन युक्ता येन ब्रह्मांड मध्ये स जयति सुतरां तीर्थराजः प्रयागः ॥ ६॥ ती- र्थावली यस्य तु कंठभागे दानावली वल्गति पादमूले । व्रतावली दक्षिणपादमूले स तीर्थराजो जयति प्रयागः ॥ ७ ॥ आज्ञापि यज्ञाः प्रभवोपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानभिज्ञाः | विज्ञापयंतः सततं हि काले सतीर्थ ० ॥ ८ ॥ सितासिते यत्र तरंगचामरे नद्यौ विभाते मुनि- भानुकन्यके । लीलातपत्रं वट एक साक्षात्स तीर्थराजो ज० ॥ ९ ॥ तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यति । शृण्वतः सततं भक्त्या वांछितं फलमाप्नुयात् ॥ १० ॥ इति श्रीमत्स्यपुराणे प्रयागराजमाहात्म्याष्टकं समाप्तम् ॥ १५०. काशीपंचकम् । श्रीगणेशाय नमः ॥ मनोनिवृत्तिः परमोपशांतिः सा ती- र्थवर्या मणिकर्णिका च । ज्ञानप्रवाहा विमलादिगंगा सा काशिकाहं निजबोधरूपा ॥ १ ॥ यस्यामिदं कल्पित मिंद्रजालं चराचरं भाति मनोविलासम् । सच्चित्सुखैका परमात्मरूपा सा का० ॥ २ ॥ कोशेषु पंचस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम् । साक्षी शिवः सर्वगणोंतरात्मा सा का० ॥३॥ काइयां हि काश्यते काशी काशी सर्वप्रका- शिका | सा काशी विदिता येन तेन प्राप्ता हि काशिका 20