पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ बृहत्स्तोत्ररत्नाकरे धुनो० ॥६॥ जलच्युताच्युतांगरागलंपटालिशालिनी वि लोलराधिकाकचांतचंपकालिमालिनी | सदावगाहनाव- तीर्णभर्तृभृत्यनारदा धुनोतु ॥ ७ ॥ सदैव नंदनंदके लि शालिकुंजमंजुला तटोत्थफुल्लमल्लिकाकदंबरेणुसूज्ज्वला | जलावगाहिनां नृणां भवाब्धिसिंधुपारदा धुनोतु० ॥८॥ इति श्रीमच्छंकराचार्यविरचितं यमुनाष्टकं संपूर्णम् ॥ १५२. यमुनाष्टकम् । श्रीगणेशाय नमः ॥ कृपापारावारां तपनतनयां तापश- मनीं मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम् । वियजा- लान्मुक्तां श्रियमपि सुखाते: परिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥ मधुवनचारिणि भास्करवाहिनि जाह्रविसंगिनि सिंधुसुते मधुरिपुभूषिणि माधवतोषिणि गोकुलभीतिविनाशकृते | जगदघमोचनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ २ ॥ अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे परिजनपालिनि दुष्टनिषूदिनि वांछितकामविलासधरे । व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीति० ॥ ३ ॥ अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुल- मागतपादसरोजयुगम् । ऋणभयभीतिमनिष्कृतिपात- ककोटिशतायुतपुंजतरं जय यमुने० ॥ ४ ॥ नवजलद- -