पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | २५ 133 सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरगृहे रंकसदृशः | शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपरः ॥ २२ ॥ अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टास्त्रिभुवनगताः स्युर्बुधगणाः । दयालुरंबो न च भवति यस्मिंश्च पुरुषे वृथा सर्वे तस्य प्रजननमतः सांद्र- तमसि ॥ २३ ॥ वरेण्यो भ्रूशुंडिर्भगुगुरुकुजा मुद्गलमुखा ह्यपारास्तद्भक्ता जपहवन पूजास्तुतिपराः । गणेशोऽयं भक्त- प्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥ २४ ॥ मृदः काश्रिद्धातोश्छद विलिखिता वापि दृषदः स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा । अशुद्धोद्धा द्वष्टा प्रवदति तदाह्वां गणपतेः श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥ २५ ॥ बहि- द्वारस्य गजवदनवधनमयं प्रशस्तं वा कृत्वा विवि- धकुशलैस्तत्र निहतम् । प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं विलोक्यानंदस्तां भवति जगतो विस्मय इति ॥ २६ ॥ सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्ति कृत्वा गणपतितिथौ ढुंढिसदृशीम् । समचैत्युत्साहः प्रभवति महान् सर्वसदने विलोक्यानंदस्तां प्रभवति नृणां विस्मय इति ॥ २७ ॥ तथा ह्येकः श्लोको वरयति महिनो गणपतेः कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपतिते । स्मृतं नामास्यैकं सकृदिदमनंताह्वयसमं यतो यस्यैकस्य