पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | १५४. पुष्कराष्टकम् । श्रीगणेशाय नमः ॥ श्रियायुतं त्रिदेहतापपापराशिना- शकं मुनींद्रसिद्धसाध्यदेवदानवैरभिष्टुतम् । तटेस्ति यज्ञपर्वतस्य मुक्तिदं सुखाकरं नमामि ब्रह्मपुष्करं सवै - ष्णवं सशंकरम् ॥१॥ सदार्यमासशुष्कपंचवासरे वरागतं तदन्यथांतरिक्षगं सुतंत्रभावनानुगम् । तदंबुपानमज्जनं दृशां सदामृताकरं नमामि० ॥ २ ॥ त्रिपुष्कर त्रिपु टकर त्रिपुष्करेति संस्मरेत्स दूरदेशगोऽपि यस्तदंगपाप- नाशनम् । प्रपन्नदुःखभंजनं सुरंजनं सुधाकरं नमामि ० ॥ ३ ॥ गृकंडुमंकणौ पुलस्त्य कण्वपर्वतासिता अगस्त्य- भार्गवौ दधीचिनारदौ शुकादयः । सपद्मतीर्थपावनैक- दृष्टयो दयाकरं नमामि० ॥ ४ ॥ सदा पितामहेक्षितं व राहविष्णुनेक्षितं तथाऽमरेश्वरेक्षितं सुरासुरैः समीक्षि- तम् । इहैव भुक्तिमुक्तिदं प्रजाकरं घनाकरं नमामि० ॥५॥ त्रिदंडिदंडिब्रह्म चारितापस: सुसेवितं पुरार्धचंद्रप्राप्त देवनंदिकेश्वराभिघैः । सवैद्यनाथनीलकंठसेवितं सुधा- करं नमामि० ॥६॥ सुपंचधा सरस्वती विराजते यदंतरे तथैकयोजनायतं विभाति तीर्थनायकम् । अनेकदैवपै- नतीर्थसागरं रसाकरं नमामि० ॥ ७ ॥ यमादिसंयुतो नरस्त्रिपुष्करं निमज्जति पितामहश्च माधवोप्युमाधवः प्रसन्नताम् । प्रयाति तत्पदं ददात्ययत्ततो गुणाकरं न ३२७ okp