पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ बृहत्स्तोत्ररत्ताकरे मामि० ॥ ८ ॥ इदं हि पुष्कराष्टकं सुनीतिनीरजाश्रितं स्थितं मदीयमानसे कदापि माऽपगच्छतु । त्रिसंध्यमा- पठंति ये त्रिपुष्कराष्टकं नराः प्रदीप्तदेहभूषणा भवंति मे- शकिंकराः ॥ ९ ॥ इति श्रीपुष्कराष्टकं समाप्तम् ॥ १५५. श्रीमणिकर्णिकाष्टकम् । श्रीगणेशाय नमः ॥ त्वत्तीरे मणिकर्णिके हरिहरौ सायु- ज्यमुक्तिप्रदौ वादं तौ कुरुतः परस्परमुभौ जंतोः प्रयाणो- त्सवे | मद्रूपो मनुजोऽयमस्तु हरिणा मोक्तः शिवस्तत्क्ष- णात्तन्मध्याअगुलांछनो गरुडगः पीतांबरो निर्गतः ॥ १ ॥ इंद्रायास्त्रिदशा: पतंति नियतं भोगक्षये ते पुनर्जायते मनुजास्ततोऽपि पशवः कीटा: पतंगादयः । ये मातर्मणि- कर्णिके तव जले मज्जंति निष्कल्मषाः सायुज्येऽपि किरी- टकौस्तुभधरा नारायणाः स्युर्नराः ॥ २ ॥ काशी धन्य- तमा विमुक्तिनगरी सालंकृता गंगया तत्रेयं मणिक- र्णिका सुखकरी मुक्तिर्हि तत्किंकरी । स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुः खे गतः ॥ ३ ॥ गंगातीर- मनुत्तमं हि सकलं तत्रापि काश्युत्तमा तस्यां सा मणि- कर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः । देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैः प्राप्यते ॥ ४ ॥ दुःखांभोनिधिमनजंतुनिवहा- -