पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि । स्तेषां कथं निष्कृतिर्ज्ञात्वैतद्धि विरंचिना विरचिता वाराणसी शर्मंदा । लोकाः स्वर्गमुखान्ततोपि लघवो भोगांतपातप्रदाः काशी मुक्तिपुरी सदा शिवकरी धर्मा- र्थकामोत्तरा ॥ ५ ॥ एको वेणुधरो धराधरधरः श्रीवत्स- भूषाधरो योप्येकः किल शंकरो विषधरो गंगाधरो- माघरः । ये मातर्मणिकर्णिके तव जले मजति ते मा- नवा रुद्रा वा हरयो भवंति बहवस्तेषां बहुत्वं कथम् ॥ ६ ॥ त्वत्तीरे मरणं तु मंगलकरं देवैरपि लाध्यते शकस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः आयांतं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा पुण्योऽसौ वृषगोऽथवा गरुडगः किं मंदिरं यास्यति ॥ ७ ॥ मध्याह्ने मणिकर्णिकास्त्र पनजं पुण्यं न वक्तुं क्षमः स्त्रीयैरन्दशतै- श्वतुर्मुखसुरो वेदार्थदीक्षागुरुः | योगाभ्यासबलेन चंद्रशि- खरस्तत्पुण्यपारं गतस्त्वत्तीरे प्रकरोति सुप्तपुरुष नारा- यणं वा शिवम् ॥ ८ ॥ कृच्छ्र: कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं तत्सर्व मणिकर्णिकात्रपनजे पुण्ये प्र विष्टं भवेत् । स्त्रात्वा स्तोत्रमिदं नरः पठति चेत्संसार- पाथोनिधि तीर्खा पलवलवत्प्रयाति सदनं तेजोमयं. ब्रह्मणः ॥९॥ इति श्रीमच्छंकराचार्यविरचितं मणिकर्णि- काष्टकस्तोत्रं संपूर्णम् ॥