पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | २३३ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं धन्याष्टकस्तोत्रं संपूर्णम् ॥ १५९ विज्ञाननौका । श्रीगणेशाय नमः ॥ तपोयज्ञदानादिभिः शुद्धबुद्धिविं- रक्तो नृपादौ पदे तुच्छबुद्ध्या | परित्यज्य सर्व यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥ दयालुं गुरुं व्र- ह्मनिष्ठं प्रशांतं समाराध्य मत्या विचार्य स्वरूपम् । यदा- मोति तत्त्वं निदिध्यास्य विद्वान्परं ब्रह्म० ॥२॥ यदानंदरूपं प्रकाशस्वरूपं निरस्तप्रपंचं परिच्छेदशून्यम् | अहंब्रह्मवृत्त्यै- कगम्यं तुरीयं परं ब्रह्म० ॥३॥ यदज्ञानतो भाति विश्वंस- मस्तं विनष्टं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म० ॥ ४ ॥ निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम् । अवस्थात्रयातीतमेकं तुरीयं परं ब्रह्म० ॥ ५ ॥ यदानंदलेशैः समानंदि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम् । यदालोचने रूपमन्य- समस्तं परं ब्रह्म० ॥ ६ ॥ अनंतं विभुं सर्वयोनिं निरीहं शिवं संगहीनं यदोंकारगम्यम् । निराकारमत्युज्वलं मृ व्युहीनं परं ब्रह्म० ॥ ७ ॥ यदानंदसिंधौ निमग्नः पुमान्त्या- दविद्याविलासः समस्तप्रपंचः । यदा न स्फुरत्यद्भुतं यन्नि- मित्तं परं ब्रह्म० ॥ ८ ॥ स्वरूपानुसंधानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः । शृणोतीह वा नित्यमुधु- क्तचित्तो भवेद्विष्णुरनैव वेदप्रमाणात् ॥ ९ ॥ विज्ञान-