पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः | पश्चाद्धावति जर्जरदेहे वार्ता पृच्छति कोपि न गेहे । भज गोविंद भज० ॥ ३ ॥ जटिलो मुंडी लुंचितकेशः काषायांबरबहु- कृतवेषः । पश्यन्नपि च न पश्यति मूढ उदरनिमित्तं बहु- कृतवेषः | भज गोविं० ॥ ४ ॥ भगवद्गीता किंचिदधीता गंगाजललवकणिका पीता | सकृदपि यस्य मुरारिसमर्चा तस्य यमः किं कुरुते चर्चा | भज गोविंदं भज० ॥ ५ ॥ अंग गलितं पलितं मुंडं दशनविहीनं जातं तुंडम् । वृद्धो याति गृहीत्वा दंडं तदपि न मुंचत्याशापिंडम् । भज गो- विंदं भ० ॥ ६॥ बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः । वृद्धस्तावञ्चितामग्नः परे ब्रह्मणि कोपि न लग्नः । भज गोविंदं भज० ॥ ७ ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननी- जठरे शयनम् । इह संसारे खलु दुस्तारे कृपयाऽपारे पाहि मुरारे । भज गोविंदं भज० ॥ ८ ॥ पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः । पुनरप्ययनं पुनरपि वर्षे तदपि न मुंचत्याशामर्षम् | भज गोविंदं भज० ॥ ९ ॥ वयसि गते कः कामविकारः शुष्के नीरे कः का- सारः । नष्टे द्रव्ये कः परिवारो ज्ञाते तत्त्वे कः संसारः । भज गोविंदं भज० ॥ १० ॥ नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् । एतन्मांसवसादिविकारं मनसि विचारय वारंवारम् | भज गोविंदं भज गो० ॥ ११ ॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।