पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे निजबोधरूपः ॥ २ ॥ निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोक चेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यम- इयुष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तत आश्रित्य निष्कंपमेकं स नित्योपलब्धिस्वरूपोऽह● ॥ ४ ॥ मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु | चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलब्धिस्वरूपोऽह० ॥ ५ ॥ यथादर्पणाभाव आभा- सहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यः स नित्योप० ॥ ६ ॥ मनश्चक्षुरादेर्वि युक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरा देरगम्यस्त्ररूपः स नित्योपल० ॥ ७ ॥ य एको विभाति स्वतः शुद्धचेताः प्रकाश स्वरूपोऽपि नानेव धीषु । शरा- वोदकस्थो यथा भानुरेकः स नित्योपल० ॥ ८ ॥ यथा- ऽनेकचक्षुः प्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रका इयम् । अनेका धियो यस्तथैकः प्रबोधः स नित्योपल● ॥ ९ ॥ विवस्वत्प्रभातं यथारूपमक्षं प्रगृह्णाति नाभात. मेवं विवस्वान् । यदाभात आभासयत्यक्षमेकः स नित्यो- पल० ॥ १० ॥ यथा सूर्य एको स्वनेकश्चलासु स्थिरास्व- प्यनन्यद्विभाव्यस्वरूपः । चलासु प्रभिन्नाः सुधीष्वेक- एव स नित्योपल० ॥ ११ ॥ वनच्छन्नदृष्टिनच्छन्नम .