पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्धाति यो मूढदृष्टे स नित्योपल० ॥ १२ ॥ समस्तेषु वस्तुष्वनुस्यू- तमेकं समस्तानि वस्तूनि यन्न स्पृशंति । वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्यो० ॥ १३ ॥ उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि | यथा चंद्रिकाणां जले चंचलत्वं तथा चंचलत्वं तवापीह विष्णो ॥ १४ ॥ इति श्रीमच्छंकराचार्यकृतहस्तामलकसंवादस्तोत्रं संपूर्णम् ॥ १६३. आत्मबोधः । श्रीगणेशाय नमः ॥ तपोभिः क्षीणपापानां शांतानां वीत- रागिणाम् । मुमुक्षूणामपेक्ष्योयमात्मबोधो विधीयते ॥ १॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिद्ध्यति ॥ २ ॥ अविरो- धितया कर्म नाविद्यां विनिवर्तयेत् । विद्याऽविद्यां निहं- त्येव तेजस्तिमिरसंघवत् ॥ ३ ॥ परिच्छिन्नमिवाज्ञानात्त- बाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशु- मानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्धि नि र्मलम् | कृत्वाऽज्ञानं स्वयं नश्येजलं कतकरेणुवत् ॥५॥ संसारः स्वमतुल्यो हि रागद्वेषादिसंकुलः । स्वकाले सत्य- वद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६॥ तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानम