पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे वस्तु व्यवहारस्तदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५८ ॥ अनण्वस्थूलमहस्वमदीर्घमजम- व्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ५९ ॥ यद्भासा भासतेऽर्कादि भास्यैर्यत्तु च भास्यते । येन सर्व- मिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥६० ॥ स्वयमंतर्बहिर्व्याप्य भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निप्रततायसपिं- डवत् ॥ ६१ ॥ जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन | ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६२ ॥ दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानंदमद्वयम् ॥ ६३ ॥ सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्ष्यते । अज्ञानचक्षुर्नेक्षेत भास्वंतं भानुमं- धवत् ॥ ६४ ॥ श्रवणादिभिरुद्दीप्तो ज्ञानाग्निपरितापितः । जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६५ ॥ हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत् । सर्वव्यापी सर्वधारी भाति सर्व प्रकाशते ॥ ६६ ॥ दिग्देशकालाद्य- नपेक्ष्य सर्वगं शीतादिहन्नित्यसुखं निरंजनम् । यः स्वात्म तीर्थ भजाष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत् ॥६७ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरा- चार्यकृत आत्मबोधः समाप्तः ॥ १६४. साधनपंचकम् । श्रीगणेशाय नमः ॥ वेदो नित्यमधीयतां तदुदितं कर्मस्व