पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे १६५. मनीषापंचकम | श्रीगणेशाय नमः ॥ सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् | काशीक्षेत्रं प्रति सह गौर्या मार्गे तु शंकरम् ॥ १ ॥ अंत्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् । शंकरः सोऽपि चांडालस्तं पुनः प्राह शंकरम् ॥ २ ॥ अन्नमयादन्नमय- मथवा चैतन्यमेव चैतन्यात् । द्विजवर दूरीकर्तुं वांछसि किं ब्रूहि गच्छ गच्छेति ॥ ३ ॥ किं गंगांबुनि बिंबितेंबर- मणौ चंडालवाटीपयःपूरे चांतरमस्ति कांचनघटीमृत्कुंभ- योवंबरे । प्रत्यग्वस्तुनि निस्तरंगसहजानंदावबोधा- बुधौ विप्रोयं श्वपचोयमित्यपि महान् कोयं विभेदभ्रमः ॥ ४ ॥ जाग्रत्स्वमसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी । सै- वाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यापि चेचांडा- लोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ ५ ॥ ब्रह्मैवाहमिदं जगच सकलं चिन्मात्रविस्तारितं सर्व चैत- दविद्यया त्रिगुणयाशेषं मया कल्पितम् । इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले चांडालोऽस्तु स तु० || ६ || शश्वन्नश्वरमेव विश्वमखिलं निश्चिय वाचा गुरो. नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना । भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ७ ॥ या तिर्यडून रदेवताभिरहमित्यंतः स्फुटा गृह्यते यद्भासा हृदयाक्षदेह-