पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | ॥ २२ ॥ त्मवदाभांति यत्सान्निध्याजडा अपि । देहेंद्रियमनःप्राणाः सोहमित्यवधारय ॥ २० ॥ अगमन्मे मनोऽन्यत्र सांप्रत च स्थिरीकृतम् । एवं यो वेत्ति धीवृत्तिं सोहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा । यो वेश्यविक्रियः साक्षात्सोहमित्यवधारय घटावभासको दीपो घटादन्यो यथेष्यते । देहावभासको देही तथाई बोधविग्रहः ॥ २३ ॥ पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोहमि- त्यवधारय ॥ २४ ॥ परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो दृष्टा सोहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्व- मपि बोद्धृत्वमविकारितयाऽऽत्मनः ॥ २६ ॥ देहेंद्रिय- मनःप्राणाहंकृतिभ्यो विलक्षणः । प्रोज्झिताशेषषड्भाव- विकारस्त्वंपदाभिधः ॥ २७ ॥ त्वमर्थमेवं निश्चित्य तदर्थं चिंतयेत्पुनः । अतद्व्यावृत्तिरूपेण साक्षाद्वि- धिमुखेन च ॥ २८ ॥ निरस्ताशेषसंसारदोषोऽस्थूलादि- लक्षणः । अदृश्यत्वादिगुणक: पराकृततमोमलः ॥ २९ ॥ निरस्तातिशयानंदः सत्यप्रज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधा- रय ॥ ३१ ॥ यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदाद्यनेकदृष्टांतैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥ यदानंत्यं प्र