पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । १६८. भगवत्प्रातःस्मरणम् । श्रीगणेशाय नमः ॥ प्रातः स्मरामि फणिराजतनौ शयानं नागामरासुरनरादिजगन्निदानम् | वेदैः सहागमगणै- रुपगीयमानं कांतारकेतनवतां परमं निधानम् ॥ १ ॥ प्रातर्भजामि भवसागरवारिपारं देवर्षिसिद्धनिवर्विहि- तोपहारम् । संहप्तदानवकदंबमदापहारं सौंदर्यराशि- जलराशिसुताविहारम् ॥ २ ॥ प्रातर्नमामि शरदंबरकां- तिकांतं पादारविंदमकरंदजुषां भवांतम् । नानाव तारहतभूमिभरं कृतांतं पाथोजकंबुरथपादकरं प्रशां- तम् ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं ब्रह्मानंदेन कीर्तितम् । यः पठेप्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥ इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीभगवत्प्रातःस्मरणं संपूर्णम् ॥ १६९. प्रातःस्मरणस्तोत्रम् | श्रीगणेशाय नमः ॥ प्रातः स्मरामि हृदि संस्फुरदात्म- तत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसु- पुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसंघः ॥ १॥ प्रातर्भजामि मनसो वचसामगम्यं वाचो विभांति नि- खिला यदनुग्रहेण | यन्नेति नेति वचनैर्निगमा अवो